उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मꣳ श्र॑थाय। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ऽअदि॑तये स्याम ॥१२ ॥
उत्। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। व॒रु॒ण॒। पाश॑म्। अ॒स्मत्। अव॑। अ॒ध॒मम्। वि। म॒ध्य॒मम्। श्र॒था॒य॒। श्र॒थ॒येति॑ श्रथय। अथ॑। व॒यम्। आ॒दि॒त्य॒। व्र॒ते। तव॑। अना॑गसः। अदि॑तये। स्या॒म॒ ॥१२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी वही विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(उत्) (उत्तमम्) (वरुण) शत्रूणां बन्धक (पाशम्) बन्धनम् (अस्मत्) अस्माकं सकाशात् (अव) (अधमम्) निकृष्टम् (वि) (मध्यमम्) मध्यस्थम् (श्रथाय) विमोचय (अथ) पश्चात्। अत्र निपातस्य च [अष्टा०६.३.१३६] इति दीर्घः (वयम्) प्रजास्थाः (आदित्य) अविनाशिस्वरूप सूर्य्य इव सत्यन्यायप्रकाशक (व्रते) सत्यन्यायपालननियमे (तव) (अनागसः) अनपराधिनः (अदितये) पृथिवीराज्याय। अदितिरिति पृथिवीनामसु पठितम् ॥ (निघं०१.१) (स्याम) भवेम। [अयं मन्त्रः शत०६.७.३.८ व्याख्यातः] ॥१२ ॥